________________
ऽध्यायः] अनश्नत्पारायणविधिव्याख्यानम् । १८५६
कामाय कामायैतदाहार्यमित्याचक्षते ॥३६ यं कामं कामयते तमेतेनाऽऽप्नोति ॥३७ एतेन वा ऋषय आत्मानं शोधयित्वा पुरा कर्माण्यसाधयन् ॥ तदेतद्धन्यं पुण्यं पुत्र्यं पौत्र्यं पशव्यमायुष्यं स्वयं यशस्यं सार्वकामिकम् ॥३६ नक्षत्राणां सूर्याचन्द्रमसोरेव सायुज्यं सलोकतामाप्नोति य उ चैनदधीते य उ चैनदधीते ॥४०
इति तृतीयप्रश्नेऽष्टमोऽध्यायः।
अथ तृतीयप्रश्ने नवमोऽध्यायः।
अनश्नत्पारायणविधि व्याख्यानम् । अथातोऽनश्नत्पारायणविधि व्याख्यास्यामः॥१ शुचिवासाः स्याञ्चीरवासा वा हविष्यमनमिच्छेदपः फलानि वा ॥२ ग्रामात्प्राची वोदीची वा दिशमुपनिष्कम्य गोमयेन गोचर्ममात्रं चतुरस्र स्थण्डिलमुपलिप्य प्रोक्ष्य लवणमुल्लिख्याद्भिरभ्युक्ष्याग्निमुपसमाधाय संपरिस्तीर्यंताभ्यो देवताभ्यो जुहुयात् ॥३ अग्नये स्वाहा प्रजापतये स्वाहा सोमाय स्वाहा विश्वेभ्यो देवेभ्यः स्वयंभुवः ऋग्भ्यो यजुर्ध्यः सामभ्योऽथर्वभ्यः