SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ १८५८ बौधायनस्मृतिः। [अष्टमो अपः पीत्वाऽथाऽऽज्यस्य जुहोति प्राणापान० वाङअनः० शिरःपाणि त्वक्चम० शब्द० पृथिवी० अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहेति सप्तभिरनुवाकैः ।।१८ जयप्रभृति सिद्धमा धेनुवरप्रदानात् ॥१६ सौरीभिरादित्यमुपतिष्ठते चान्द्रमसीभिश्चन्द्रमसम् ।।२० अग्ने त्वं सुजागृहीति संविशञ्जपति ।।२१ त्वमग्ने व्रतपा असीति प्रबुद्धः ।।२२ स्त्रीशूद्र भिभाषेत ॥२३ मूत्रपुरीषे नावेक्षेत ।।२४ अमेध्यं दृष्ट्वा जपति ॥२५ अनद मनो दरिद्रं चक्षुः सूर्यो ज्यौतिषां श्रेष्ठो दीक्षे मा मा हसीरिति ।।२६ प्रथमायामपरपक्षस्य चतुर्दश ग्रासान् ।।२७ एवमेकापचयेनाऽऽमावास्यायाः ॥२८ अमावास्यायां ग्रासो न विद्यते ॥२६ प्रथमायां पूर्वपक्षस्यैको द्वौ द्वितीयस्याम् ॥३० एवमेकोपचयेनाऽऽपौर्णमास्याः ॥३१ पौर्णमास्यां स्थालीपाकस्य जुहोत्यग्नये या तिथिः स्यान्नक्षत्रेभ्यश्च सदैवतेभ्यः ॥३२ पुरस्ताच्छ्रोणाया अभिजितः सदेवतस्य हुत्वा गां ब्राह्मणेभ्यो दद्यात् ॥३३ तदेतच्चान्द्रायणं पिपीलिकामध्यं विपरीतं यवमध्यम् ॥३४ अतोऽन्यतरच्चरित्वा सर्वेभ्यः पातकेभ्यः पापकृच्छुद्धो भवति ॥३५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy