________________
ऽध्यायः] भोजने मुन्यादीनां ग्राससंख्या वर्णनम्। १८४१
अक्रोधो गुरुशुश्रूषाऽप्रमादः शौचमाहारशुद्धिश्चेति ॥५६ अथ भैक्षचर्या ॥५७ ब्राह्मणानां शालीनयायावराणामपवृत्ते वैश्वदेवे मिक्षा लिप्सेत भवत्पूर्वा प्रचोदयेत् ॥५८ गोदोहमात्रमाकाक्षेत् ।।५६ अथ भैक्षचर्यादुपावृत्य शुचौ देशे न्यस्य हस्तपादान्प्रक्षाल्याऽऽदित्यस्यान निवेदयेत् ॥६० उदुत्यं चित्रमिति ब्रह्मणे निवेदयते ब्रह्मजज्ञानमिति विज्ञायते ॥६१ आधानप्रभृति यजमान एवाग्नयो भवन्ति तस्य प्राणो. गार्हपत्योऽपानोऽन्वाहार्यपचनो व्यान आहवनीय उदानसमानौ सभ्यावसथ्यौ पच वा एतेऽग्नय आत्मस्था आत्मन्येव जुहोति स एष आत्मयज्ञ आत्मनिष्ठ आत्मप्रतिष्ठ आत्मानं क्षेमं नयतीति विज्ञायते ॥६२ भूतेभ्यो दयापूर्वं संविभज्य शेषमद्भिः संस्पृश्यौषधवत्प्राश्नीयात् ॥६३ प्राश्याप आचम्य ज्योतिष्मत्याऽऽदित्यमुपतिष्ठते उद्वयं तमसस्परीति ॥६४ वाङ्म आसन्नसोः प्राण इति जपित्वा ॥६५ अयाचितमसंक्लूप्तमुपपन्नं यदृच्छया। आहारमात्रं भुञ्जीत केवलं प्राणयात्रिकमिति ॥६६