________________
१८४०
बौधायनस्मृतिः। [दशमोरिति मार्जयित्वाऽन्तर्जलगतोऽघमर्षणेन षोडश प्राणायामान्धारयित्वोत्तीर्य वासः पीडयित्वाऽन्यत्प्रया वासः परिधायाऽप आचम्य, ओं भूर्भुवः स्वरिति जलपवित्रमादाय तर्पयति ॥४३ ओं भूस्तर्पयाम्यों भुवस्तर्पयाम्यों स्वस्तर्पयाम्यों महस्तपैयाम्यों जनस्तर्पयाम्यों तपस्तर्पयाम्पों सत्यं तर्पयामिति ॥४४ देववत्पितृभ्योऽञ्जलिमादाय, ओं भूः स्वधों भुवः स्वधों स्वः स्वधों भूर्भुवः स्वमहर्नम इति ॥४५ अथोदुत्यं चित्रमिति द्वाभ्यामादित्यमुपतिष्ठते ॥४६ ओमिति ब्रह्म ब्रह्म वा एष ज्योतिर्य एष तपत्येष वेदो य एष तपति वेद्यमेवैतद्य एवं तपति एवमेवेष आत्मानं तर्पयत्यात्मने नमस्करोति ॥४७
आत्मा ब्रह्मात्मा ज्योतिः॥४८ सावित्री सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा ॥४६
ओं भूर्भुवः स्वरिति जलपवित्रमादायापो गृह्णाति ॥५० न चात ऊर्ध्वमनुद्धृताभिरद्भिरपरिझुताभिरपरिपूताभिर्वाऽऽचामेत् ॥५१ न चात ऊध्वं शुक्लवासो धारयेत् ।।५२ एकदण्डी त्रिदण्डी वा ॥५३ अथेमानि ब्रतानि भवन्ति ॥५४ अहिंसा सत्यमस्तैन्यं मैथुनस्य च वर्जनम् । त्याग इत्येव पञ्चैवोपव्रतानि भवन्ति (हि) ॥५५