________________
१८३६
ऽध्यायः] संन्यासविधिवर्णनम् ।
अथ पृष्ठ्या स्तीवाऽपः प्रणीय वैश्वानरं द्वादशकपालं निर्वपति सा प्रसिद्ध ष्टिः संतिष्ठते ॥२७ आहवनीयेऽग्निहोत्रपात्राणि प्रक्षिपत्यमृण्मयान्यनश्ममयानि ॥२८ गार्हपत्येऽरणी ॥२६ भवतं नः समनसाविति आत्मन्यनीन्समारोपयते ॥३० या ते अग्ने यज्ञिया तनूरिति त्रिस्त्रिरेकैकं समाजिघ्रति ॥३१ अथान्तर्वेदि तिष्ठन्, ओं भूर्भुवः स्वः संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति त्रिरुपांशूत्वा त्रिरुच्चैः ॥३२ त्रिषत्या हि देवा इति विज्ञायते ॥३३ अभयं सर्वभूतेभ्यो मत्त इति चापां पूर्णमञ्जलिं निनयति॥३४ अथप्युदाहरन्ति ॥३५ अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः। न तस्य सर्वभूतेभ्यो भयं चापि ह जायत, इति ॥३६ स वाचंयमो भवति ॥३७ सखा मा गोपायेति दण्डमादत्ते ॥३८ यदस्य पारे रजस इति शिक्यं गृह्णाति ॥३६ येन देवाः पवित्रेणेति जलपवित्रं गृह्णाति ॥४० येन देवा ज्योतिष; उदायन्निति कमण्डलुगृह्णाति ॥४१ सप्तव्याहृतिभिः पात्रं गृह्णाति ॥४२ यष्टयः शिक्यं जलपवित्रं पात्रमित्येतत्समादाय यत्राऽऽपस्तद्गत्वा स्नात्वाऽप आचम्य सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभि