SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ १८३६ बौधायनस्मृतिः। [ नवमो अथ द्वितीयपश्ने नवमोऽध्यायः । • अथ सत्पुत्रप्रशंसावर्णनम् । प्रजाकामस्योपदेशः॥१ प्रजनननिमित्ता समाख्येति ॥२ अश्विनावूचतुः॥३ आयुषा तपसा युक्तः स्वाध्यायेज्यापरायणः । प्रजामुत्पादयेद्युक्तः स्वे स्वे वर्णे जितेन्द्रियः॥४ ब्राह्मणस्यर्णसंयोगस्त्रिभिर्भवति जन्मतः । तानि मुच्यात्मवान्भवति विमुक्तो धर्मसंशयात् ॥५ स्वाध्यायेन ऋषीन्यूज्य सोमेन च पुरंदरम् ।। प्रजया च पितृन्पूर्वाननृणो दिवि मोदते ॥६ पुत्रेण लोकाञ्जयति पौत्रणाऽऽनन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण नाकमेवाधिरोहतीति ॥७ विज्ञायते च ।।८ जायमानो वै ब्राह्मणस्त्रिभिणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति ॥8 एवमृणसंयोगं वेदो दर्शयति ॥१० सत्पुत्रमुत्पाद्याऽऽत्मानं तारयति ॥११ सप्तावरान्सप्त पूर्वान्षडन्यानात्मसप्तमान् । सत्पुत्रमधिगच्छानस्तारयत्येनसो भयात् ।।१२ तस्मात्प्रजासंतानमुत्पाद्य फलमवाप्नोति ।।१३ तस्माद्यनवान्प्रजामुत्पादयेदौषधमन्त्रसंयोगेन ॥१४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy