SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] श्राद्धविधिवर्णनम् । १८३५ मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा प्रपितामहानां क्षेष्ठा अमुत्राः मुष्मिल्लो क इति ॥१८ अथ वै भवति ॥१६ अथ वै भवति ॥२० अग्नौकरणशेषेण तदन्नमभिधारयेत् । निरङ्गुष्ठं तु यहत्तं न तत्त्रीणाति वै पितृन् ॥२१ उभयोः शाखयोर्मुक्तं पितृभ्योऽऽन्न निवेदितम् । तदन्तरमुपासन्तेऽसुरा वै दुष्टचेतसः ॥२२ यातुधानाः पिशाचाश्च प्रतिलुम्पन्ति तद्धविः । तिलादाने ह्यदायादास्तथा क्रोधवशेऽसुराः ॥२३ काषायवासा यान्कुरुते जपहोमप्रतिग्रहान् । न तद्देवगमं भवति हव्यकव्येषु यद्धविः ।।२४ यच्च दत्तमनङ्गुष्ठं यच्चैव प्रतिगृह्यते । आचामति च यस्तिष्ठन्न स तेन समृध्यत इति ॥२५ आद्यन्तयोरपां प्रदानं सर्वत्र ।।२६ जपप्रभृति यथाविधानम् ।।२७ शेषमुक्तमष्टकाहोमे ॥२८ द्वौ देवे पितृकार्ये त्रीनेकैकमुभयत्र वा। भोजयेत्सुसमृद्धोऽपि न प्रसज्येत विस्तरे ॥२६ सक्रियां देशकालौ च शौचं ब्राह्मणसंपदम् । पञ्चैतान्विस्तरो हन्ति तस्मात्तं परिवर्जयेत् ॥३० उरस्तः पितरस्तस्य वामतश्च पितामहाः । दक्षिणतः प्रपितामहाः पृष्ठतः पिण्डतर्कका इति ॥३१ ।। इति द्वितीयप्रश्नेऽष्टमोऽध्यायः।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy