SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ १८३४ बौधायनस्मृतिः। [अष्टमोकृप्तेष्वासनेषु प्राङ्मुखानुपवेशयत्युदङ्मुखान्वा ॥७ अथैनांस्तिलमिश्रा अपः प्रतिग्राह्य गन्धैर्माल्यैश्वालंकृत्याग्नौ करिष्यामीत्यनुज्ञातोऽनिमुपसमाधाय संपरिस्तीर्याग्नि मुखात्कृत्वाऽन्नस्यैव तिस्र आहुतीर्जुहोति ॥८ सोमाय पितृपीताय स्वधा नमः स्वाहा ।।६ यमायाङ्गिरस्वते पितृमते स्वधा नमः स्वाहा ॥१० अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः स्वाहेति ॥११ तच्छेषेणान्नमभिघार्यान्नस्यता एव तिस्रो जुहुयात् ॥१२ वयसां पिण्डं दद्यात् ।।१३ वयसां हि पितरः पूतिमया चरन्तीति विज्ञायते ॥१४ अथेतरत्साङ्गुष्ठेन पाणिनाऽभिमृशति ॥१५ पृथिवीसमन्तस्य तेऽग्निरुपद्रष्टर्चस्ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्र धौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राणापानयोर्जुहोम्यक्षितमसि मा पितृणां क्षेष्ठा अमुत्रामुष्मिल्लों क इति ॥१६ अन्तरिक्षसमन्तस्य ते वायुरुपश्रोता यजूंषि ते महिमा दत्तस्याप्रमादाय पृथिवी ते पात्र द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा विद्यावां प्राणापानयोर्जुहोम्यक्षितमसि मा पितामहानां क्षेष्ठा अमुत्रामुष्मिल्लो क इति ॥१७ द्युसमन्तस्य त आदित्योऽनुख्याता सामानि ते महिमा ' दत्तस्याप्रमादाय पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy