SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ १८३७ ऽध्यायः] संन्यासविधिवर्णनम् । तस्योपदेशः श्रुतिसामान्येनोपदिश्यते ॥१५ सर्ववर्णेभ्यः फलवत्त्वादिति फलवत्त्वादिति ॥१६ इति द्वितीयप्रश्ने नवमोऽध्यायः। अथ द्वितीयप्रश्ने दशमोऽध्यायः । . अथ संन्यासविधिवर्णनम् । अथातः संन्यासविधिं व्याख्यास्यामः ॥१ सोऽत एव ब्रह्मचर्यवान्प्रव्रजतीत्येकेषाम् ॥२ अथ शालीनयायावराणामनपत्यानाम् ॥३ विधुरो वा प्रजाः स्वधर्मे प्रतिष्ठाप्य वा ॥४ सप्तत्या ऊवं संन्यासमुपदिशन्ति ॥५ वानप्रस्थस्य वा कर्मविरामे ॥६ . एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् । तस्यैवाऽऽत्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेनेति ॥७ अपुनभवं नयतीति नित्यः ॥८ महदेनं गमयतीति महिमा | केशश्मश्रुलोमनखानि वापयित्वोपकल्पयते॥१० यष्टयः शिक्यं जलपवित्रं कमण्डलु पात्रमिति ॥११ एतत्समादाय सामान्ते ग्रामसीमान्तेऽग्न्यगारे वाऽऽज्यं पयो दधीति त्रिवृत्प्राश्योपविशेत् ॥१२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy