________________
१८३२
बौधायनस्मृतिः। [ सप्तमोयथा हि तूलमैषीकम् ॥२१ यथा हि तूलमैषीकमग्नौ प्रोतं पूदीप्यते। तद्वत्सर्वाणि पापानि दह्यन्ते ह्यात्मयाजिनः ।।२२ केवलाघो भवति केवलादी मोघमन्नं विन्दत इति ॥२३ स एवमेवाहरहः सायं पातर्जुहुयात् ।।२४ अद्भिर्वा सायम् ॥२५ अथाप्युदाहरन्ति ॥२६ अग्रे भोजयेदतिथीनन्तर्वत्नीरनन्तरम् । बालवृद्धांस्तथा दीनान्व्याधितांश्च विशेषतः ॥२७ अदत्त्वा तु य एतेभ्यः पूर्व भुक्ते यथाविधि । भुज्यमानो न जानाति न स भुङ्क्ते स भुज्यते ॥२८ पितृदेवतभृत्यानां मातापित्रोर्गरोस्तथा । वाग्यतो विघसमश्नीयादेवं धर्मो विधीयत इति ॥२६ अथाप्युदाहरन्ति ॥३० अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः । द्वात्रिंशतं गृहस्थस्यापरिमितं ब्रह्मचारिणः ॥३१ आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः । अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नतामिति ॥३२ गृहस्थो ब्रह्मचारी वा योऽनश्नस्तु तपश्चरेत् । प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत्तु सः॥३३ अन्यत्र पायश्चित्तात्यायश्चित्ते तदेव विधानम् ॥३४