________________
१८३०
बौधायनस्मृतिः। [सप्तमोत्रयीं विद्यां ब्रह्मचर्य प्रजाति श्रद्धां तपो यज्ञमनुप्रदानम् ॥४३ य एतानि कुर्वते तैरित्सह स्मो रजो भूत्वा ध्वंसतेऽन्यत्प्रशंसन्निति ॥४४
इति द्वितीयप्रश्ने षष्ठोऽध्यायः।।
अथ द्वितीयप्रश्ने सप्तमोऽध्यायः। शालीनयायावराणामात्मयाजिनां प्राणाहुति व्याख्यानम् ।
अथ शालीनयायावराणामात्मयाजिनां प्राणाहुतीाख्यास्यामः॥१ सर्वावश्यकावसाने संमृष्टोपलिप्ते देशे प्राङ्मुख उपविश्य तद्भूतमाहियमाणं भूर्भुवः स्वरोमिति उपस्थाय वाचं यच्छेत् ॥२ न्यस्तमन्नं महाव्याहृतिभिः प्रदक्षिणमुदकं परिषिच्य सव्येन पाणिना विमुञ्चन्नमृतोपस्तरणमसीति पुरस्तादपः पीत्वा पञ्चान्नेन प्राणाहुतीर्जुहोति ॥३ प्राणे निविष्टोऽमृतं जुहोमि शिवो मा विशाप्रदाहाय प्राणाय स्वाहेति ॥४ पञ्चान्नेन प्राणाहुतीहु त्वा तूष्णीं भूयो व्रतयेत्प्रजापति मनसा ध्यायनान्तरा वाचं विसृजेत् ॥५