________________
१८२८
बौधायनस्मृतिः। षष्टोऐष्टिकपाशुकसौमिकदाविहोमानाम् ॥१४ तदेषाऽभिवदति ॥१५ ये चत्वारः पथयो देवयाना अन्तराद्यावापृथिवी वियन्ति । तेषां यो अज्यानिमजीतिमावहात्तस्मै नो देवाः परिदत्तेह सर्व इति ॥१६ ब्रह्मचारी गृहस्थो वानप्रस्थः परिव्राजक इति ॥१७ ब्रह्मचारी गुरुशुश्रूष्यामरणात् ॥१८ वानप्रस्थो वैखानसशास्त्रसमुदाचारः ॥१६ वैखानसो वने मूलफलाशी तपशीलः [सवने] षूदकमुपस्पृशब्छामणकेनाग्निमाधायाग्राम्यभोजी देवपितृभूतमनुष्यर्षिपूजकः सर्वातिथिः प्रतिषिद्धवजं भैक्षमप्युपयुञ्जीत न फालकृष्टमधितिष्ठेग्रामं च न प्रविशेजटिलवीरार्जिनवासा नातिसांवत्सरं भुञ्जीत ॥२० परिव्राजकः परित्यज्य बन्यूनपरिग्रहः प्रव्रजेद्यथाविधि ॥२१ अरण्यं गत्वा शिखामुण्डः कौपीनाच्छादनः ॥२२ वर्षास्वेकरथः ॥२३ काषायवासाः सन्नमुसले व्यङ्गारे निवृत्तशरावसंपाते भिक्षेत ॥२४ वाङ्मनःकर्मदण्डैर्भूतानामद्रोही ॥२५ पवित्रं बिभ्रच्छौचार्थम् ॥२६ उदधृतपरिपूताभिरद्भिरप्कार्यं कुर्वाणः । २ि७