SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] पञ्चमहायज्ञविधिवर्णनम् । १८२७ अथ द्वितीयप्रश्ने षष्ठोऽध्यायः । अथ पञ्चमहायज्ञाः, आश्रमधर्मनिरूपणञ्च । अथ पञ्च महायज्ञाः॥१ तान्येव महासत्राणि ॥२ . देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति ॥३ अहरहः स्वाहा कुर्यादाकाष्ठात्तथैतं देवयज्ञं समाप्नोति ॥४ अहरहः स्वधा कुर्यादोदपात्रात्तथैतं पितृयज्ञं समाप्नोति ॥५ अहरहनमस्कुर्यादापुष्पेभ्यस्तथैतं भूतयज्ञं समाप्नोति ॥६ अहरहर्ब्राह्मणेभ्योऽन्नं दद्यादा मूलफलशाकेभ्यस्तथैतं मनुष्ययज्ञं समाप्नोति ॥७ अहरहः स्वाध्यायं कुर्यादा प्रणवात्तथैतंब्रह्मयज्ञं समाप्नोति ॥८ स्वाध्यायो वै ब्रह्मयज्ञस्तस्य ह वा एतस्य ब्रह्मयज्ञस्य वागेव जुहूर्मन उपभृञ्चक्षुधवा मेधा स्रुवः सत्यमवभृथः स्वर्गो लोक उदयनं यावन्त ह वा इमां वित्तस्य पूर्णा ददत्स्वर्ग लोक जयति तावन्तं लोकं जयति भूयांसं चाक्षय्यं चाप पुनर्मृत्यु जयति य एवं विद्वान्स्वाध्यायमधीते तस्मात्स्वाध्यायोऽध्येतव्य इति हि ब्राह्मणम् ॥ अथाप्युदाहरन्ति ॥१० स्वभ्यक्तः सुहितः सुखे शयने शयानो यं यं ऋतुमधीते तेन तेनास्येष्टं भवतीति ॥११ तस्य ह वा एतस्य धर्मस्य चतुधा भेदमेक आहुरदृष्टत्वात् ॥१२ ये चत्वार इति कर्मवादः ॥१३ ११५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy