________________
ऽध्यायः] मध्याहनानविधिवर्णनम्। १८१६
अथ द्वितीयप्रश्ने पञ्चमोऽध्यायः।
अथ मध्याह्नस्नानविधिवर्णनम् अथ हस्तौ प्रक्षाल्य कमण्डलु मृत्पिण्डं च संगृह्य तीर्थ गत्वा त्रिः पादौ प्रक्षालयते त्रिरात्मानम् ।।१ अथ हैके ब्रुवते ॥२ श्मशानमापो देवगृहं गोष्ठं यत्र च ब्राह्मणा अप्रक्षाल्य पादौ तन्न प्रवेष्टव्य मिति ॥३ अथापोऽभिप्रपद्यते ॥४ हिरण्यशृङ्ग वरुणं प्रपद्ये तीर्थ मे देहि याचितः। यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥५ यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् । तन्म(न) इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः . पुनरिति ॥६ अथाञ्जलिनाऽप उपहन्ति ।।७ सुमित्रा न आप ओषधयः [संत्विति ॥८. तां दिशं निरुक्षति यस्यामस्य दिशि द्वेष्यो भवतिदुमित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति ॥ अथाप उपस्पृश्य त्रिः प्रदक्षिणमुदकमावर्तयति यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतादिति ॥१० अप्सु निमज्ज्योन्मज्ज्य ॥११ नाप्सु सतः प्रयमणं विद्यते न वासः पल्पूलनम् ॥१२ नोपस्पर्शनम् ॥१३ यधुपरुद्धाः स्युरेतेनोपतिष्ठते नमोऽनयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽभ्य इति ॥१४