________________
ऽध्यायः सन्थ्योपासनविधिवर्णनम् । १८१७
प्रक्षालितपादपाणिरप आचम्य सुरभिमत्याऽब्लिकाभिर्वारुणीमिहिरण्यवर्णाभिः पावमानीभियाडतिमिरन्यैश्च पवित्ररात्मानं प्रोक्ष्य प्रयतो भवति ॥२ . अथाप्युदाहरन्ति ॥३ अपोऽवगाहनं स्नानं विहितं सार्ववर्णिकम् । मन्त्रवत्प्रोक्षणं चापि द्विजातीनां विशिष्यत इति ॥४ सर्वकर्मणां चैवाऽऽरम्भेषु प्राक्संध्योपासनकालाचतेनैव पवित्रसमूहेनाऽऽत्मानं ॥५ प्रोक्ष्य प्रयतो भवति ॥५ अथाप्युदाहरन्ति ॥६ दर्भेष्वासीनो दर्भान्धारयमाणः सोदकेन पाणिनाप्रत्यक् मुखः सावित्री सहस्रकृत्व आवर्तयेत् ॥७. . प्राणायामशो वा शतकृत्वः ।।८ उभयतः प्रणवां ससप्तव्याहृतिका मनसा वा दशकृत्वः ॥६ त्रिभिश्च प्राणायामैस्तान्तो ब्रह्महृदयेन ॥१० वारुणीभ्यां रात्रिमुपतिष्ठते ॥११ इमं मे वरुण तत्त्वा यामीति द्वाभ्याम् ॥१२ एवमेव प्रातः प्राङ्मुखस्तिष्ठन् ॥१३ मैत्रीभ्यामहरुपतिष्ठते मित्रस्य चर्षणीधृतो मित्रो.जनान्यातयतीति द्वाभ्याम् ।।१४ सुपूर्वामपि पूर्वामुपक्रम्योदित आदित्ये समाप्नुयात् ॥१५ अनस्तमित उपक्रम्य सुपश्चादपि पश्चिमाम् ॥१६ संध्ययोश्च संपत्तावहोरात्रयोश्च संतत्यै ॥१७