________________
१८१२
बौधायनस्मृतिः ।
[ तृतीयो
नयोः पशुश्चातुर्मास्यान्यृतुमुखे षड्ढोता वसन्ते ज्योतिष्टोम इत्येवं क्षेमपापणम् ॥८५
अथाप्युदाहरन्ति ॥८६
न दिवा स्वप्नशीलेन न च सर्वान्नभोजिना । कामं शक्यं नभो गन्तुमारूढपतितेन वा ॥८७ दैन्यं शाठ्यं जह्मच च वर्जयेत् ॥८८ अथाप्यत्रोशनसश्च वृषपर्वणश्च दुहित्रोः संवादे गाथामुदाहरन्ति ॥८६
स्तुवतो दुहिता त्वं वै याचतः प्रतिगृहतः । अथाहं स्तूयमानस्य ददतोऽप्रतिगृह्णतो ददतोऽप्रतिगृह्णत, इति इति द्वितीयप्रश्ने द्वितीयोऽध्यायः ।
अथ द्वितीयप्रश्ने तृतीयोऽध्यायः ।
अथ देवादितर्पणविधिवर्णनम् ।
देवतास्तर्पयित्वा पितृतर्पणम् ॥२
तपस्यवगाहनम् ।।१ अनुतीर्थमप उत्सिञ्चति ॥ ३ ऊर्जे वहन्तीरिति ॥४
अथाप्युदाहरन्ति ॥५
स्रवन्तीष्वनिरुद्धासु त्रयो वर्णा द्विजातयः । प्रातरुत्थाय कुर्वीरन्देवर्षिपितृतर्पणम् ॥६