________________
ऽध्यायः ]
अगम्यस्त्रीणामभिधानवर्णनम् ।
सखिवघूरित्यगम्याः ॥७१
अगम्यानां गमने कृच्छ्रातिकृच्छ्रौ चान्द्रायणमिति
प्रायश्चित्तिः ॥७२
एतेन चण्डालीव्यवायो व्याख्यातः ॥७३
अथाप्युदाहरन्ति ॥ ७४
चण्डालीं ब्राह्मणो गत्वा भुक्त्वा च प्रतिगृह्य च । अज्ञानात्पतितो विप्रो ज्ञानात्तु समतां व्रजेत् ॥७५ पितुर्गुरोर्नरेन्द्रस्य भार्या गत्वा प्रमादतः । गुरुतल्पी भवेत्तेन पूर्वोक्तस्तस्य निश्चयः, इति ॥७६ अध्यापनयाजनप्रतिग्रहैरशक्तः ।
११४
१८११
क्षत्त्रधर्मेण जीवेत्प्रत्यनन्तरत्वात् ॥७७ नेति गौतमोऽत्युप्रो हि क्षत्त्रधर्मो ब्राह्मणस्य ॥७८ अथाप्युदाहरन्ति ॥७६
गवार्थे ब्राह्मणार्थे वा वर्णानां वाऽपि संकरे । गृह्णीयातां विप्रविशौ शस्त्रं धर्मव्यपेक्षया ॥८० वैश्यवृत्तिरनुष्ठेया प्रत्यनन्तरत्वात् ॥८१ प्राक्प्रातराशात्कर्षी स्यात् ॥८२ अस्यूतनासिकाभ्यां समुष्काभ्यामतुदन्नारया
मुहुर्मुहुरभ्युच्छन्दयन् ॥८३ भार्यादिरग्निस्तस्मिन्कर्मकरणं प्रागग्न्याधेयात् ॥८४ अग्न्याधेयप्रभृत्यथेमान्यजस्राणि भवन्ति यथैतदग्न्याधेयमग्निहोत्र' दर्शपूर्णमासावाप्रयणमुद्गयनदक्षिणाय