SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] त्रिया अस्वातन्त्र्यकथनम् । १८०६ तेषां प्रथम एवेत्याहौपजङ्घनिः ॥३८ इदानीमहमीर्ष्यामि स्त्रीणां जनक नो पुरा । यतो यमस्य सदने जनयितुः पुत्रमब्रुवन् ॥३६ . रेतोधाः पुत्र नयति परेत्य यमसादने। तस्माद्भार्या (तु रक्षन्ति विभ्यतः पररेतसः॥४० अप्रमत्ता रक्षथ तन्तुमेतं मां वःक्षेत्रे पर(रे)बीजानि वाप्सुः। यनयितुः पुत्रो भवति सापराये मोघं वेत्ता कुरुते तन्तुमेतमिति ॥४१ तेषामवाप्तव्यवहाराणामंशान्सोपचयान्सुनिगुप्तानिदध्युरा व्यवहारप्रापणात् ।।४२ । अतीतव्यवहारान्प्रासाच्छादनैर्विभ्युः ॥४३ अन्धजडक्लीबव्यसनिव्याधितादींश्च ॥४४ अकर्मिणः ।।४५ पतिततज्जातवर्जम् ॥४६ न पतितः संव्यवहारो विद्यते ॥४७ पतितामपि तु मातरं विभृयादनभिभाषमाणः॥४८ मातुरलंकारं दुहितरः सांप्रदायिकं लभेरनन्यद्वा ।।४६ न स्त्रीस्वातन्त्र्यं विद्यते ॥५० अथाप्युदाहरन्ति ॥५१ पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमहतीति ॥५२ निरिन्द्रिया ह्यदायाश्च स्त्रियो मता इति श्रुतिः ॥५३ भर्तृहिते यतमानाः स्वर्ग लोकं जयेरन् ।।५४ ..
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy