________________
१८०८
बौधायनस्मृति। द्वितीयोमातापितृभ्यां दत्तोऽन्यतरेण वां योऽपत्यार्थे परिगृह्यते स दत्तः ॥२४ . सदृशं यं सकामं स्वयं कुर्यात्स कृत्रिमः ॥२५ गृहे गूढोत्पन्नोऽन्ते ज्ञातो गूढजः ॥२६ मातापितृभ्यामुत्सृष्टोऽन्यतरेण वा योऽपत्यार्थे परिगृह्यते सोऽपविद्धः ॥२७ असंस्कृतामनतिसृष्टां यामुपयच्छेत्तस्यां यो जातः स कानीनः ।।२८ या गर्भिणी संस्क्रियते विज्ञाता वाऽविज्ञाता वा तस्य यो जातः स सहोढः ॥२६ मातापित्रोहस्ताक्रीतोऽन्यतरेण वा योऽपत्यार्थे परिगृह्यते स क्रीतः ॥३०. क्लीवं त्यक्त्वा पतितं वा याऽन्यं पति विन्देत्तस्यां पुनर्वा यो जातः स पौनर्भवः ॥३१ मातापितृविहीनो यः स्वयमात्मानं दद्यात्स स्वयंदत्तः ॥३२ द्विजातिप्रवराच्छूद्रायां जातो निषादः॥३३ कामात्पारशव इति पुत्राः ॥३४ अथाप्युदाहरन्ति ॥३५ औरसं पुत्रिकापुत्र क्षेत्र दचकृत्रिमौ। . गूढजं चापविद्धं च रिक्थभाजः प्रचक्षते ॥३६ कानीनं च सहोढं च क्रीतं पौनर्भवं तथा । स्वयंदत्तं निषादं च गोत्रभाजः प्रचक्षते ॥३७ .