________________
ऽध्यायः] दायविभागवर्णनम्, औरसादिपुत्राणां वर्णनश्च १८०७
चतुणां वर्णानां गोश्वाजावयो ज्येष्ठांशः ॥६ नानावर्णखीपुत्रसमवाये दायं दशांशान्कृत्वा चतुरस्त्रीन्द्वावेकमिति यथाक्रमं विभजेरन् ॥१० औरसे तूत्पन्ने सवर्णास्तृतीयांशहराः ॥११ . सवर्णापुत्रानन्तरापुत्रयोरनन्तरापुत्रश्चेद्गुणवान्स ज्येष्ठांशं हरेत् ॥१२ गुणवान्हि शेषाणां भर्ता भवति ॥१३ सवर्णायां संस्कृतायां स्वयमुत्पादितमौरसं पुत्रं विद्यात् ॥१४ अथाप्युदाहरन्ति- ॥१५ अङ्गावङ्गात्संभवसि हृदयादधि जायसे। आत्मा वै पुत्रनामाऽसि स जीव शरदः शतमिति ॥१६ अभ्युपगम्य दुहितरि जातं पुत्रिकापुत्रमन्यं दौहित्रम् ॥१७ अथाप्युदाहरन्ति ।।१८ आदिशेत्प्रथमे पिण्डे मातरं पुत्रिकासुतः। द्वितीये पितरं तस्यास्तृतीये च पितामहमिति ॥१६ मृतस्य प्रसूतो यः क्लीबव्याधितयोर्वाऽन्येनानुमते स्वे क्षेत्रे स क्षेत्रजः ।।२० स एष द्विपिता द्विगोत्रश्च द्वयोरपि स्वधारिक्थभाग्भवति ॥२१ अथाप्युदाहरन्ति ॥२२ द्विपितुः पिण्डदानं स्यात्पिण्डे पिण्डे च नामनी । त्रयश्च पिण्डाः षण्णां स्युरेवं कुर्वन्न मुह्यतीति ।।२३