________________
१८०६
बौधायनस्मृतिः। [द्वितीयोत्र्यहं प्रातस्तथा सायमयाचितं पराक इति कृच्छः ॥६१ प्रातः सायमयाचितं पराक इति त्रयश्चतूरात्राः स एष स्त्रीबालवृद्धानां कृच्छ्रः॥१२ यावत्सकृदाददीत तावदश्नीयात्पूर्ववत्सोऽतिकृच्छ्रः ॥६३ अब्भक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः ॥६४ कुच्छ्रे त्रिषवणमुदकोपस्पर्शनम् ॥६५ अधः शयनम् ॥६६ । एकवत्रता ॥६७ केशश्मश्रुलोमनखवापनम् ।।६८ एतदेव स्रियाः केशवपनवर्जम् ॥88
इति द्वितीयप्रश्ने प्रथमोऽध्यायः।
अथ द्वितीयप्रश्ने द्वितीयोऽध्यायः।
अथ दायविभागवर्णनम्। नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी वृषलानवर्जी। तौ च गच्छन्विधिवञ्च जुलन्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥१ मनुः पुत्रेभ्यो दायं व्यभजदिति श्रुतिः॥२ . समशः सर्वेषामविशेषात् ॥३ वरं वा रूपमुद्धरेज्येष्ठः ॥४ तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्तीति श्रुतिः॥५ दशानां वैकमुद्धरेज्येष्ठः ॥६ सममितरे विभजेरन् ॥७ पितुरनुमत्या दायविभागः सति पितरि ॥८