SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ ऽन्यायः] प्रायश्चित्तवर्णनम् । १८९१ अश्वमेधेन गोसवेनाग्निष्टुता वा यजेत ॥३ अश्वमेधावभृथे वाऽऽत्मानं प्लावयेत् ॥४ अथाप्युदाहरन्ति ॥५ अमत्या ब्राह्मणं हत्वा दुष्टो भवति धमतः। ऋषयो निष्कृति तस्य वदन्त्यमतिपूर्वके ॥६ मतिपूर्व घ्नतस्तस्य निष्कृतिर्नोपलभ्यते । अपमूर्य चरेत्कृच्छमतिकृच्छ्रेनिपातने ॥७ कृच्छ्चान्द्रायणं चैव लोहितस्य प्रवर्तने । तस्मान्नवापगुरेत न च कुर्वीत शोणितमिति ।।८ नव समा राजन्यस्य ॥ तिस्रो वैश्यस्य ॥१० संवत्सरं शूद्रस्य ॥११ स्त्रियाश्च ॥१२ ब्राह्मणवदात्रेय्याः ॥१३ गुरुतल्पगस्तप्ते लोहशयने शयीत ॥१४ सूमि वा ज्वलन्तीं श्लिष्येत् ॥१५ लिङ्ग वा सवृषणं परिवास्याञ्जलावाधाय दक्षिणाप्रतीच्योदिशमन्तरेण गच्छेदा निपतनात् ॥१६ स्तेनः प्रकीर्य केशान्सधकं मुसलमादाय स्कन्धेन राजानं गच्छेदनेन मां जहीति तेनैनं हन्यात् ॥१७ अथाप्युदाहरन्ति ॥१८ . स्कन्धेनाऽऽदाय मुसलं स्तेनो राजानमन्वियात् । अनेन शाधि मां राजन्क्षत्रधर्ममनुस्मरन् ॥१६ शासने वा विसर्ग वा स्तेनो मुच्येत किल्बिषात् । .. अशासनात्तु तद्राजा स्तेनादाप्नोति किल्बिषमिति ॥२०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy