________________
ऽध्यायः] यज्ञाङ्गविधिवर्णनम् ।
१७६१ यज्ञाङ्गभ्य आज्यमाज्यावींषि हविभ्यः पशुः पशोः सोमः सोमादग्नयः॥१० यथाकर्मत्विजो न विहारादभिपर्यावर्तेरन् ॥११ पाङ मुखश्चेद्दक्षिणमंसमभिपर्यावर्तेत ॥१२ प्रत्यङ्मुखः सव्यम् ॥१३ अन्तरेण चात्वालोत्करौ यज्ञस्य तीर्थम् ॥१४ आ चात्वालादाहवनीयोत्करौ ॥१५ ।। ततः कर्तारो यजमानः पत्नी च पूपधेरन् , विसंस्थितेः ॥१६ संस्थिते च संचरोऽनुत्करदेशात् ॥१७ नाप्रोक्षितमपूपन्नं क्लिन्नं काष्ठं समिधं वाऽभ्यादध्यात् ॥१८ अग्रेणाऽऽहवनीयं ब्रह्मयजमानौ पपद्यते॥१६ जघनेनाऽऽहवनीयमित्येके ॥२० दक्षिणेनाऽऽहवनीयं ब्रह्मायतनं तमपरेण यजमानस्य ॥२१ उत्तरां श्रोणिमुत्तरेण होतुः ॥२२ उत्कर आग्नीध्रस्य ॥२३ जघनेन गार्हपत्यं पत्न्याः ॥२४ तेषु काले काल एव दर्भान्संस्तृणाति ॥२५ एकेकस्य चोदकमण्डलुरुपात्तः स्यादाचमनाथः ॥२६ व्रतोपेतो दीक्षितः स्यात् ॥२७ न परपापं वदेन क्रुद्धन्न रोदेन्मूत्रपुरीषे नावेक्षेत ॥२८ अमेध्यं दृष्ट्वा जपति ॥२६ अबद्धं मनो दरिद्रं चक्षुः सूर्यों ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीरिति ॥३०
इति पथमपश्ने सप्तमोऽध्यायः ।