________________
१७६०
बौधायनस्मृतिः। [ षष्ठोबहूनां तु प्रोक्षणम् ॥४५ तण्डुलानामुत्सगः ॥४६ एवं सिद्धहविषाम् ।।४७ महतां श्ववायसप्रभृत्युपहतानां तं देशं पुरुषान्नमुद्धृत्य पवमानः सुवर्जन इति एतेनानुवाकेनाभ्युक्षणम् ॥४८ मधूदके पयोविकारे पात्रात्पात्रान्तरानयने शौचम् ॥४६ एवं तैलसर्पिषी उच्छिष्टसमन्वारब्धे उदकेऽवधायोपयोजयेत् ॥ अमेध्याभ्याधाने समारोप्याग्नि मथित्वा पवमानेष्टिः ॥५१ शौचदेशमन्त्रावृदर्थद्रव्यसंस्कारकालभेदेषु पूर्वपूर्वप्राधान्यं पूर्वपूर्वप्राधान्यम् ॥५२
इति प्रथमप्रश्ने षष्ठोऽध्यायः ।
अथ प्रथमप्रश्ने सप्तमोऽध्यायः।
अथ पुनः यताङ्गविधिवर्णनम्। उत्तरत उपचारो विहारः॥१ तथाऽपवर्गः ॥२ विपरीतं पित्र्येषु ॥३ पादोपहतं प्रक्षालयेत् ।।४
अङ्गमुपस्पृश्य सिचं वाऽप उपस्पृशेत् ।।५।। एवं छेदनभेदनखनननिरसनपित्र्यराक्षसनैऋतरौद्राभिचरणीयेषु ॥६
न मन्त्रवतायज्ञाङ्गेनाऽऽत्मानमभिपरिहरेत् ॥७ अभ्यन्तराणि यज्ञाङ्गानि बाह्या ऋत्विजः ॥८ पत्नीयजमानावृत्विग्भ्योऽन्तरतमौ ॥१