________________
बौधायनस्मृतिः।
पञ्चमोआ सप्तमासादा दन्तजननाद्वोदकोपस्पर्शनम् । पिण्डोदकक्रिया प्रेते नात्रिवर्षे विधीयते ॥१०६ आ दन्तजननाद्वाऽपि दहनं च न कारयेत् । अप्रत्तासु च कन्यासु प्रत्तास्वेके ह कुर्वते ॥११० लोकसंग्रहणाथं हि तदमन्त्राः स्त्रियो मताः । स्त्रीणां कृतविबाहानां व्यहाच्छुध्यन्ति बान्धवाः ॥१११ यथोक्तेनैव कल्पेन शुध्यन्ति च सनाभयः, इति ॥११२ अपि च प्रपितामहः पितामहः पिता स्वयं सौदर्या भ्रातरःसवर्णायाः पुत्रः पौत्रः प्रपौत्रस्ततपुत्रवर्ज तेषां चपुत्रपौत्रमविभक्तदायं सपिण्डानाचक्षते ॥११३ विभक्तदायानपि सकुल्यानाचक्षते ॥११४ असत्स्वन्येषु तगामी ह्यर्थो भवति ॥११५ सपिण्डाभावे सकुल्यः॥११६ तदभावे पिताऽऽचार्योऽन्तेवास्यत्विग्वा हरेत् ॥११७ तदभावे राजा तत्स्वं त्रैविद्यवृद्धभ्यः संप्रयच्छेत् ॥११८ न त्वेव कदाचित्स्वयं राजा ब्राह्मणस्वमाददीत ॥११६ प्रथाप्युदाहरन्ति ॥१२० ब्रह्मस्वं पुत्रपौत्रघ्नं विषमेकाकिनं हरेत् ।। न विषं विषमित्याहुब्रह्मस्वं विषमुच्यते ॥१२१ तस्माद्राजा ब्राह्मणस्वं नाऽऽददीत परमं ह्येतद्विषं यब्राह्मणस्वमिति ॥१२२ जननमरणयोः संनिपाते समानो दशरात्रः॥१२३