SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ शौचविधिनिरूपणम् । अयज्ञेनाविवाहेन वेदस्योत्सादनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥६७ ब्राह्मणातिक्रमो नास्ति मूर्खे मन्त्रविवर्जिते । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ ६८ गोभिरश्वैश्व यानैश्व कृष्या राजोपसेवया । कुलान्यकुलतां यान्ति यानि हीनानि मन्त्रतः ॥६६ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि । कुलसंख्यां च गच्छन्ति कर्षन्ति च महाद्यशः ॥ १०० वेदः कृषिविनाशाय कृषिर्वेदविनाशिनी । शक्तिमानुभयं कुर्यादशक्तस्तु कृषिं त्यजेत् ॥ १०१ न वै देवान्पीवरोऽसंयतात्मा रोरूयमाणः ककुदी समश्नुते । चलत्तुन्दी रसभः कामवादी कृशास इत्यणवस्तत्र यान्ति ॥ १०२ यौवने चरति विभ्रमेण सद्वाऽसद्वा यादृशं वा यदा वा । उत्तरे चेद्वयसि साधुवृत्तस्तदेवास्य भवति नेतराणि ॥ १०३ सोचेत मनसा नित्यं दुष्कृतान्यनुचिन्तयन् । तपस्वी चाप्रमादी च ततः पापात्प्रमुच्यते ॥ १०४ स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । न तैरुच्छिष्टभावः स्यात्तुल्यास्ते भूमिगैः सहेति ॥ १०५ सपिण्डेष्वादशाहम् ॥१०६ सपिण्डेष्वादशाहमाशौचमिति जननमरणयोरधिकृत्य - वदत्यृत्विग्दीक्षितब्रह्मचारिवर्जम् ॥१०७ सपिण्डता त्वा सप्तमात्सपिण्डेषु ॥ १०८ ऽध्यायः ] १७८३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy