SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] . द्रव्यशुद्धिप्रकरणवर्णनम् । १७७६ स्यन्नद्भिः प्रोक्षेत् ॥२६ अथ चेदन्ननोच्छिष्टी स्यात्तदुदस्याऽऽचम्याऽऽदास्य नद्भिः प्रोक्षेत् ।।३० अथ चेदद्भिरुच्छिष्टी स्यात्तदुदस्याऽऽचम्याऽऽदास्यन्नद्भिः प्रोक्षेत् ॥३१ एतदेव विपरीतममत्र ॥३२ वानस्पत्ये विकल्पः॥३३ तैजसानामुच्छिष्टानां गोशकृन्मृद्भस्मभिः परिमार्जनमन्यतमेन वा ॥३४ ताम्ररजतसुवर्णानामम्लैः ॥३५ अमन्त्राणां दहनम् ॥३६ दारवाणां तक्षणम् ॥३७ वैणवानां गोमयेन ॥३८ फलमयानां गोवालरज्ज्वा ॥३६ कृष्णाजिनानां बिल्वतण्डुलैः ।।४० कुतपानामरिष्टैः ॥४१ और्णानामादित्येन ॥४२ क्षौमाणां गौरसर्षपकल्केन ॥४३ मृदा चेलानाम ॥४४ चेलवञ्चर्मणाम् ॥४५ तैजसवदुपलमणीनाम ॥४६ . दारुवदस्थ्नाम ॥४७ क्षौमवच्छङ्खशृङ्गशुक्तिदन्तानाम, पयसा वा ॥४८ चक्षुर्घाणानुकूल्याद्वा मूत्रपुरीषामृषशुक्रकुणपस्पृष्टानां पूर्वोक्तानामन्यतमेन त्रिःसप्तकृत्वः परिमार्जनम ॥४६ अतैजसानामेवंभूतानामुत्सर्गः ॥५० वचनाद्यज्ञे चमसपात्राणाम् ॥५१ न सोमेनोच्छिष्टा भवन्तीति श्रुतिः ॥५२ कालोऽग्निर्मनसः शुद्धिरुदकाद्युपलेपनम् । अविज्ञातं च भूतानां षड्विधं शौचमुच्यते. इति ।।५३ ११२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy