________________
१७८०
बौधायनस्मृतिः ।
पवमो
अथाप्युदाहरन्ति ||५४
कालं देशं तथाऽऽत्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थां च विज्ञाय शौचं शौचज्ञः कुशलो धर्मेप्सुः समाचरेत् ||५५
नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् । ब्रह्मचारिगतं भैक्षं नित्यं मेध्यमिति श्रुतिः ||५६
वत्सः प्रसवणे मेध्यः शकुनिः फलशातने । . विश्व रतिसंसर्गे वा मृगग्रहणे शुचिः ॥५७
る
आकराः शुचयः स वजयित्वा सुराकरम् ।
अदूष्याः सतता धारा वातोद्धूताश्च रेणवः ॥ ५८ अमेध्येषु च ये वृक्षा उप्ताः पुष्पफलोपगाः ।
तेषामपि न दुष्यन्ति पुष्पाणि च फलानि च ॥५६ चैत्यवृक्षं चितिं यूपं चण्डालं वेदविक्रयम् । एतानि ब्राह्मणः स्पृष्ट्रा सचेलो जलमाविशेत् ॥ ६० आत्मशय्याssसनं वस्त्रं जायाऽपत्यं कमण्डलुः । शुचीन्यात्मन एतानि परेषामशुचीनि तु ॥ ६१ आसनं शयनं यानं नावः पथि तृणानि च । श्वचण्डालपतितस्पष्टं मारुतेनैव शुध्यति ॥ ६२ खलक्षेत्रेषु यद्धान्यं कूप वापीषु यज्जलम् । अभोज्यादपि तद्भोज्यं यच्च गोष्ठगतं पयः ॥ ६३ त्रीणि देवाः पवित्राणि ब्राह्मणामकल्पयन् । अष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ ६४