________________
Se
.
ऽध्यायः] शुद्धिप्रकरणवर्णनम्।
यदिच्छेद्धर्मसंततिमिति बौधायनः ॥२७ ऋग्विधेनेति वाग्वदति (?) ॥२८
इति प्रथमप्रश्ने चतुर्थोऽध्यायः॥४
अथ प्रथमप्रश्ने पञ्चमोऽध्यायः।
अथ शुद्धिप्रकरणवर्णनम् । अथातः शौचाधिष्ठानम् ।।१ अद्भिः शुध्यन्ति गात्राणि बुद्धिर्ज्ञानेन शुध्यति । अहिंसया च भूतात्मा मनः सत्येन शुष्यति, इति ॥२ मनःशुद्धिरन्तःशौचम् ॥३ बहिःशौचं व्याख्यास्यामः॥५ कौशं सूत्रं वा त्रिविद्यज्ञोपवीतम् ॥५ आ नाभेः॥६ दक्षिणं बाहुमुद्धृत्य सव्यमवधाय शिरोऽवदध्यात् ।।७ विपरीतं पितृभ्यः॥८ कण्ठेऽवसक्तं निवीतम् ।। अधोऽवसक्तमधोवीतम् ॥१० प्राङ्मुख उदङ्मुखो वाऽऽसीनः शौचमारभेत शुचौ देशे दक्षिण बाहुं जान्वन्तरा कृत्वा प्रक्षाल्य पादौ पाणी चाऽऽमणिबन्धात् ॥११ . पादप्रक्षालनोच्छषणेन नाऽऽचामेत् ।।१२ यद्याचामेद्भूमौ स्रावयित्वाऽऽचामेत् ॥१३