________________
१७७६ · बौधायनस्मृतिः। [पञ्चमो
गृहीयादित्येतदपरम् ॥१४ यावदुदकं गृहीयात्तावत्प्राणमायच्छेत्, अग्निर्ह वै खुदकं गृह्णाति ॥१५
कमण्डलूदकेनाभिषिक्तपाणिपादो बावदाद्रं तावदशुचिः परेषामात्मानमेव पूतं करोति नान्यत्कर्म कुर्वीतेति विज्ञायते ॥१६
अपि वा प्रतिशौचमा मणिवन्धाच्छचिरिति बौधायनः ॥१७ अथाप्युदाहरन्ति ॥१८ कमण्डलुर्द्विजातीनां शौचाथं विहितः पुरा। ब्रह्मणा मुनिमुख्यश्च तस्मात्तं धारयेत्सदा ॥१६ ततः शौचं ततः पानं संध्योपावनमेव च । निर्विशङ्कन कर्तव्यं यदीच्छेच्छ्य आत्मनः। कुर्याच्छुद्ध न मनसा न चित्तं दूषयेद्बुधः ॥२० सह कमण्डलुनोत्पन्नः स्वयंभूस्तस्मात्कमण्डलुना चरेत् ।।२१ मूत्रपुरीषे कुर्वन्दक्षिणे हस्ते गृह्णाति सव्य आचमनीयमेतत्सिध्यति साधूनाम् ।।२२ यथा हि सोमसंयोगाच्चमसो मेध्य उच्यते । अपां तथैव संयोगान्नित्यो मेध्यः कमण्डलुः ॥२३ पितृदेवाग्निकार्येषु तस्मात्तं परिवर्जयेत ॥२४ तस्माद्विना कमण्डलुना नावानं व्रजेन सीमान्तं न गृहाद्गृहम् ॥२५ पदमपि न गच्छेदिषुमात्रादित्येके ॥२६