________________
ध्यायः
कमण्डलुचोभिधानवर्णनम् ।
अथ प्रथमपश्ने चतुर्थोऽध्यायः।
अथ कमण्डलुचर्याभिधानवर्णनम् । अथ कमण्डलुचर्यामुपदिशन्ति ॥१ छागस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे।
अप्सु चैव कुशस्तम्बे पावकः परिपठ्यते ॥२ तस्माच्छौचं कृत्वा पाणिना परिमृजीत पर्यग्निकरणे हि तत् ॥३ उहीप्यस्व जातवेद इति पुनर्वाहाद्विशिष्यते ॥४ तत्रापि किंचित्संस्पृष्टं मनसि मन्येत कुशर्वा तृणैर्वा । प्रज्वाल्य प्रदक्षिण परिदहनम् ।।५ अत अव्वं श्ववायसप्रमृत्युपहतानामग्निवर्ण इत्युपदिशन्ति॥६ मूत्रपुरीषलोहितरेतःप्रमृत्युपहतानामुत्सर्गः ॥ भाने कमण्डलो व्याहृतिभिः शतं जुहुयाज्जपेद्वा ।।८ भूमिभूमिमगान्माता मातरमप्यगात् । भूयास्म पुत्रः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति ॥8 कपालानि संहृत्याप्सु प्रक्षिप्य सावित्री दशावरां कृत्वा पुनरेवान्यं गृह्णीयात् ॥१०. वरुणमाश्रित्येतत्ते वरुण पुनरेतु मोमिति अक्षरं ध्यायेत् ॥११ शूद्राद्गृह्य शतं कुर्याद्वश्यादर्धशतं स्मृतम् । क्षत्नियात्पञ्चविंशस्तु ब्रांझणाइशकीर्तिताः॥१२ अस्तमित आदित्य उदकं गृह्णीयान गृहीयादिति मीमांसन्ते ब्रह्मवादिनः ॥१६