________________
१७७२
बौधायनस्मृतिः। [द्वितीयोसमिद्धायुदकुम्भपुष्पान्नहस्तो नाभिवादयेद्यच्चान्यदप्येवं युक्तम् ॥ न समवायेऽभिवादनमत्यन्तशः ॥३१ भ्रातृपनानां युवतीनां च गुरुपत्नीनां जातवीर्यः॥३२ नौशिलाफलककुञ्जरप्रासादकटेषु चक्रवत्सु चादोषं सहाऽऽसन म् प्रसाधनोच्छादनखापनोच्छिष्टभोजनानीति गुरोः॥३४ उच्छिष्टवर्जनं तत्पुत्रेऽनूचाने वा ॥३५ प्रसाधनोच्छादननापनवर्जनं च तत्सल्याम् ॥३६ धावन्तमनुधावेद्गच्छन्तमनुगच्छेत्तिष्ठन्तमनुतिष्ठेत् ॥३७ नाप्सु श्लाघमानः स्नायात् ॥३८ दण्ड इव प्लवेत ॥३६ अब्राह्मणादध्ययनमापदि ॥४० शुश्रूषाऽनुव्रज्या च यावदध्ययनम् ॥४१ तयोस्तदेव पावनम् ॥४२ भ्रातपुत्रशिष्येषु चैवम् ॥४३ कृत्विक्श्वशुरपितृव्यमातुलानां तु यवीयसांप्रत्युत्थायाभिभाषणम् ॥४४ . प्रत्यभिवादं इति कात्यः॥४५ शिशावाङ्गिरसे दर्शनात् ॥४६ धर्मार्थों यत्र न स्याताम् ।।४७ धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा । विद्यया सह मर्तव्यं न चैनामूषरे वपेत् ॥४८ अमिरिव कक्षं दहति ब्रह्म पृष्ठ(ट)मनादृतम् । तस्माद्वै शक्यं न ब्रूयाद् ब्रह्म मानमकुर्वतामिति ॥४६ एवास्मै वचो घेदयन्ते ब्रह्म वै मृत्यवे प्रजाः प्रायच्छत्तस्मैब्रह्मचारिणमेव न प्रायच्छत्सोऽब्रवीदस्तु मलमप्येतस्मिन्भाग