________________
१७५८
लघ्वाश्वलायनस्मृतिः। त्रिविंशोसंगृह्याऽऽहुतिमेकां च धृताभ्यक्तां विगृह्य च । सोमायेति तु मन्त्राभ्यां जुहुयात्कुशपाणिना ॥४६ सुवेण चाज्यमादाय तदाभावेऽथ वा कुशैः । पितृणामेव पात्राणि तूष्णीमेवाभिघारयेत् ॥५० अन्नं पाणिहुतं यच्च निदध्यात्तत्स भाजने। गत्वाऽन्यत्र समाचम्य पुनश्चोपविशेदथ ॥५१ देवपात्रादितश्वाऽऽज्यं सव्येनैवाभिधारयेत् । मूर्धानमिति मन्त्रेण सर्वपात्राणि चैव हि ॥५२ आमास्वित्यादिकान्मन्त्रान्स्वयमेव जपन्न हि [पेदथ] । पत्नी चाप्यथ वा पुत्रः शिष्यो वा परिवेषयेत् ॥५३ अन्नं च पायसं भक्ष्यमाज्यं च व्यञ्जनादिकम् । दद्यादेवाऽदितः सर्व सूपमन्ते च पैतृके ॥५४ पात्रस्थं प्रोक्षयेदन्नं गायत्र्या चाभिमन्त्र्य च । पाणिभ्यां भाजनं धृत्वा पृथ्वी ते पात्रमुच्चरेत् ॥५५ इदं विष्णुरनेनान्ने द्विजाङ्गुष्ठं निवेदशियेत् । स्वहादितः समुच्चार्य गयायां दत्तमस्त्विति ॥५६ ये देवास इमं मन्त्रामुच्चार्याथ च पैतृके। संप्रोक्ष्य पूर्ववञ्चान्नं प्राचीनावीत्यतः परम् ॥५७ परिविष्टेषु चान्नेषु हुतशेष निधाय च । दद्यादन्नं पितृभ्योऽपि पूर्ववपितृनामभिः ।।५८ ये चेहेति च वै मन्त्र समुच्चार्य ततः परम् । देवांस्तुत्वा पितॄश्चैव ब्रह्मनिष्टान्मुनीश्वरान् ॥५६