________________
१७५०० लघ्वाश्वलायनस्मृतिः । [एकविंशो
ऊवं चेत्पतिसंयोगो जायते तां परित्यजेत् । संतानश्चेद्भवेत्तस्यां निन्ध स्यात्पतितः पतिः ।। अज्ञातश्च द्विजो यस्तु विधवामुबहेद्यदि। परित्यज्य च वैतां च प्रायश्चित्तं समाचरेत् ॥११ अब्दमेकं विधायाऽदाववकीण[णि व्रतं.चरेत् । पुत्रश्चेजायते तस्यामेको गोलक उच्यते ॥१२ विधवायाः सुतस्य श्चं]व गोलकः कुण्ड इत्यथ । त्रयश्चैव हि निन्द्याः स्युः सर्वधर्मवहिष्कृताः ॥१३ संस्कार्य यौ] विधिवञ्चोक्तं क्तौ मुनिभिः कुण्डगोलको । युगान्तरे समर्ध धर्म] स्यात्कलौ निन्द्य इतिस्मृतः ॥१४ परिव(वित्या सुत: कुण्डो व्यभिचारसमुद्भवः । गोलको विधवां च निषिद्धः स्यात्कलौ स्मृतः ।।१५ वार्षलेयश्च वै कुण्डो गोलकः शूद्रयोनिजः। तजश्चापि हि निन्द्यः स्युर्माहिषयश्च विप्रजः॥१६ एभिः सह वसेदेषां याजनं कुरुतेऽथ वा। वित्तमेषां द्विजो यस्तु भुङ्क्ते सोऽपि हि तत्समः ।।१७ एतेषां याजनं यस्तु ब्राह्मणः कुरुते यदि । स याति नरकं घोरं यावदिन्द्राश्चतुर्दश ॥१८ अद्विजानां चाध्ययनं याजनं च प्रतिग्रहम् । ब्राह्मणो नैव गृह्णीयादिति प्राहुमुनीश्वराः ॥६
इति [आश्वलायनस्सृतौ लोके निन्धप्रकरणम् ।