________________
ऽध्यायः]
लोके निन्धप्रकरणवर्णनम् ।
१७४६
॥ एकविंशोऽध्यायः॥
अथ लोके निन्द्यप्रकरणम् । क्रियाहीनस्य मूर्खस्य पराधीनस्य नित्यशः । नीचसेवारतस्यैतस्त (वं स) दाशौचं तदोच्यते ॥१ सदाचारपरिभ्रष्टो विप्रस्य (श्चै, व भवेद्यदि । कर्मभ्रष्टः स विज्ञेयो निन्धकर्मरतः सदा ॥२ माहिषयश्च वैकुण्ठो वृषलेयश्च गोलकः । निन्द्याश्च ते हि लोके स्युः कथं जातीस्तदो(तिरथो)च्यते ॥३ महिषी सोच्यते भायौं भगेनार्जति या धनम् । तस्यां यो जायते पुत्रो माहिषयः सुतः स्मृतः॥४ रजस्वला च या कन्या यदि स्यादविवाहिता । वृषली वार्षलेयः स्याजातस्तस्यां स्य (स) चैव हि ॥५ विवाहितामसंयोगां मोहाच्चदुद्वहेद् द्विजः। भूयन्तीमुद्बती चाभिगोमयेनानुलेपयेत् (१) ॥६ सूत्रमशंवरादीनि परिहत्याभिषेचयेत् । पल्लवैः पञ्चभिर्गव्यैः पावमानीभिरेव च (१) ॥७ प्रायश्चित्तं विधातव्यं कूश्या ष्माण्डं होममाचरेत् । पुनस्तामुद्हेत्रोक्तां विधिवत्पूर्वजः पतिः ।।८ संभोगात्पूर्व एव स्यादुक्तोऽयं मुनिभिविधिः । ब्रात्यस्तोमं जपेदन्यः प्रायश्चित्तपुरःसरम् ।।