________________
१७४८
लघ्वाश्वलानस्मृतिः। [विंशोसप्तमः स्यात्स्वयं चैव तत्सापिड्यं बुधैः स्मृतम् । सापिण्ड्य चो(सो)दकं चैव सगोत्रं तच्च वै क्रमात् ।।८३ एकैकं सप्तकं चैकं सापिण्ड्यकमुदाहृतम् ॥८४ सपिण्डानां तथाऽशौचं संनिधौ स्याद्यथोदितम् । दूरतस्थाद्विजानीयाहेशकालान्तरादपि ॥८५ मासत्रये त्रिरात्रं स्यात्षण्मासं पक्षिणी भवेत् । अहस्तु नवमादमूवं स्नानेन शुध्यति ॥८६ पर्वतश्च (स्य) महानद्या व्यवधानं भवेद्यदि । त्रिंशद्योजनदूरं वा सद्यः स्नानेन शुध्यति ॥८७ यत्र वाऽपि श्रुतं पित्रोमरणं दूरतोऽथ वा । भवेद्दशाहमाशौचं पुत्राणामेव निश्चितम् ।।८८ संनिधौ सोदकाशौचं भवेन्न स्यादसंनिधौ। अतश्चानुपनीतस्य मृत (ता) शौचं न हि कचित् ।।८६ दीक्षितचा (स्या)ऽऽहितामि(ग्ने)श्च स्वाध्यायनिरतस्य च । वृतस्याऽऽमिन्त्रतस्येह नाशौचं विद्यते कचित् ॥६० संप्रक्षालितपादस्य श्राद्ध विप्रस्य चैव हि । गृहानुव्रजपर्यन्तं न तस्याशौचमिष्यति(त) ॥६१ बन्धं ग (त) तस्य विप्रस्य नित्यशौच (र) परस्य (द) च । सदा चैवाऽत्मनिष्ठस्य नाशौचं विद्यते कचित् ॥१२ इत्याश्वलायनस्मृतौ प्रेतकर्मविधिप्रकरणम् ।