________________
ध्यायः] प्रेतकर्मविधिवर्णनम्।
एकमेवाभवेदन प्रायश्चित्तं तिलोदकम्। . एकस्मिन्नेव काले तु द्विजः स्तुतिप्रदक्षिणम् ।।७२ विश्वदेवादिकं सर्वमर्चयन्तु पृथक्पृथक् । पितुरादौ ततो मातुः कुर्यात्संकल्पपूर्वकम् ।।७३ अमा चाप्यष्टकापे(प)क्षमनुक्रान्तियुगादयः। वैधृतिश्च व्यतीपातः श्राद्धकालाः प्रकीर्तिताः ।।७४ गजच्छायोपरागादि श्रोत्रियागमनं च हि। नवधान्यफलोत्पत्तिरन्यश्चालभ्ययोगता ||७५ नैमित्तिका इमे प्रोक्ताः श्राद्धकाला महर्षिभिः। शक्तितः कुरुते श्राद्धं स याति परमा गतिम् ।।७६ महानदीषु सर्वासु पुण्यतीर्थासु (र्थेषु) चैव हि । श्राद्ध विधीयते तच्च नैमित्तिकमुदाहृतम् ।।७७ पुत्रवर्गादिकामेष्टिस्तत्तत्काले विधीयते । पञ्चम्यां प्रोष्ठपद्यादि वर्षौं चैव वार्षिकम् ।।७८ नित्यं नैमित्तिकं काम्यं यत्र कामप्रचोदितम् । सूतके मृतके चैव नैव कुर्यात्कथंचन ||७६ सूतकं मृतकं चैव पुत्रादीनां च संनिधौ। त्रिदिनं पक्षिणी चाथ सद्य इत्यनुवर्तते ॥८० स्मृतितस्तु न जानीयादितरेषां महर्षिणाम् । दशाहं तावदाशौचं सापिण्ड्यमनुवर्तते ॥८१ भवेत्तदूर्ध्वमेकाहं तत्पश्चात्लानतः शुचिः । पित्रादयस्त्रयश्चैवं तथा तत्पूर्वजास्त्रयः ।।८२ ११०