________________
लघ्वाश्वलायनस्मृतिः। [बिंशोप्रायश्चित्तविधिोक्तो यत्र स्याद्गृह्यकर्मणि । चतुर्गृहीतेनाऽऽज्येन होमव्याहृतिभिश्च हि ॥६१ दर्शमारभ्य शुक्ले स्यान्मृतश्चोपासनाहुतीः । चतुधतुस्तिलैः सद्यो जुहुयात्तद्दिनावधि ॥६२ . कृष्णे मृताहमारभ्य दर्शावधि तदाहुतीः। हुत्वा स्यात्पूर्ववत्कता दहेदौपासनाग्निना ॥६३ निधनं च सहात्मेनं दंपत्योर्गतयोश्च हि। वासनाग्निशिलाचित्तिचतुश्चकेन मन्त्रणम् [१] ॥३४ तिलोदकं तथा पिण्डान्नवश्राद्धं पृथक्पृथक् । अस्थिशुद्धिवृषोत्सर्ग एक एव भवेद्द्वयोः ॥६५ षोडशं च सपिण्डं च तथा मासानुमासिकम्। एकस्मिन्नेव काले तु तयोः कार्य पृथक्पृथक् ॥६६. भर्ना सह मृता नारी सह तेन सपिण्डनम् । द्विधा कृत्वा त्रिधा चैकं द्वितीयं च त्रिधा तथा॥६७ भागांस्त्रीन्प्रथमे पिण्डे पितृणां सह योजयेत् । संयोजयेत्तथा भागान्मातृपिण्डैः सहान्तरान् ॥६८ सपिण्डीकरणादूवं क्रमात्पित्रादयस्त्रयः। मात्रादयस्तथा तिस्रः श्राद्धकर्मसु चैव हि ॥६६ सहानुभृतयोः पित्रोः श्राद्ध चैव क्षयाहके । शाकपाकादिकं चान्नं तयोः कुर्यात्पृथक्पृथक् ।।७० यदि कर्तुं न शक्येत कालातीतभयादपि । अन्नपात्रं पृथक्कुर्यादिति वेदविदो विदुः ॥७१