SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ लध्वाश्वलायनस्मृतिः । नैव तत्र शवोत्पत्तिर्दर्भग्रन्थिर्विधीयते । तस्यामेवाञ्जलिं दद्याद्दशाहान्तं यथाविधि ॥ १७ दग्धस्य विधिना चान्तर्दशाहानि कृतानि चेत् । प्रेतकर्माण्यथैकस्मिन्कुर्यात्सर्वाणि वै दिने ॥१८ समाप्य तु दशाहान्तं सकलं प्रेतकर्म च । अपरेद्युस्ततः कुर्यात्षोडशं च सपिण्डनम् ॥ १६ पुत्रः पौत्रः प्रपौत्रः स्त्री भ्राता तज्जः दत्तकः । प्रेतकार्येऽधिकारी स्यात्पूर्वाभावेऽथ गोत्रजः ||२० कृत्वाऽऽदौ वपनं स्नानं शुद्धाम्बरधरः शुचिः । धृत्वा चैवाऽऽदिकं [ मं] वासः प्रेतकार्यं समाचरेत् ||२१ प्रेतकम द्विजः कुर्याद्गोत्रनामपुरःसरम् । बहूवृचो विधिनाऽनेन तत्तन्मत्रेण चैव हि ॥ २२ मौञ्जीबन्धनकाले च व्रताचरणकर्मसु । यज्ञे च मरणे पित्रोर्गयायां क्षौरमिष्यते ||२३ सपिण्डमरणे चव पुत्रजन्मनि वै तथा । स्नानं नैमित्तिकं शस्तं प्रवदन्ति महर्षयः ||२४ सपिण्डमरणे स्नायादुदक्या च प्रसूतिकाम् । इत्युक्तो मुनिभिश्चैव सर्ववर्णेष्वयं विधिः ||२५ कस्यापि मुक्तिः प्रेतत्वादवृषोत्सगं विना न हि । art चैव वृषोत्सगं कुर्यादेकादशेऽहनि ॥ २६ वृषोत्सर्गं विना प्रेतः पिशाचत्वान्न मुच्यते । पुमांश्चाप्यथ वा नारी विधवा सधवाऽपि वा ॥२७ १७४२ विशो
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy