SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ Sध्यायः ] प्रेतकर्मविधिवर्णनम् । १७४१ स्वगोत्रो वाऽन्यगोत्रो वा यदि स्त्री यदि वा पुमान् । प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् ॥६ अपुत्रश्चेन्मृतस्यै ( )वं विधिरुक्तो महर्षयः । दाहं पुत्रवतः कुर्यात्पुत्रः स्या (च) त्संनिधौ भवेत् ॥७ पुत्रं विनाऽग्निदोऽन्यश्चेदसगोत्रो यदा भवेत् । कुर्याद्दशाहमाशौचं स चापि हि सपिण्डवत् ॥८ पुत्राभावेऽग्निदः कुर्यात्सकलं प्रेतकर्म च । तस्मापुत्रवतोऽन्यश्चेद्विना दाहाग्निसंचयम् ॥ अस्थिसंचयनादर्वाग्ज्येष्ठश्वेदागतः सुतः । वासो धृत्वाऽऽदितः कर्म ज्येष्ठः कुर्याद्यथाविधि ॥ १० अस्थिसंचयनादूध्वं ज्येष्ठश्चैवाऽऽतगतोऽपि चेत् । कुर्यादग्निप्रदः पुत्रो दशाहान्तं स कर्म च ॥११ संस्कृतस्यानुमन्त्रेण येन केनापि चैव हि । संस्कुर्याच्च पुनः प्रेतं तिलालजा [अल्या ] दिकं चरेत् ॥१२ नवश्राद्धानि वै पञ्च विषमाहेषु पञ्चसु । दशाहाभ्यन्तरे कुर्युर्वद्द्वृचाश्चैव याजुषाः ॥१३ अतीतानञ्जलीन्पिण्डान्दत्त्वा चैव तदादितः । अथ वाऽऽद्याह्निकं सर्वं ज्येष्ठः कुर्याद्यथाविधि ॥१४ क्रियमाणे सुते पित्रोः प्रेतकर्माणि दूरतः । दशाहाभ्यन्तरे पुत्रस्तथाऽन्यत्र स्थितो यदि ॥ १५ श्रुतस्थाने सुतः कुर्यात्सकलं प्रेतकर्म च । षोडशं च सपिण्डं च दहनास्थिक्रियां विना ॥१६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy