________________
१७३६
ऽध्यायः] विवाहहोमोपरिवयंप्रकरणवर्णनम् ।
अन्यान्यत्र वदन्त्येके नान्दीश्राद्ध महर्षयः। यागे च प्रथमे वेदस्वीकारे च महामखे ॥४ मातृवर्गादितः कुर्यापितुर्मातामहस्य च । नवैते पितरो वृद्धिश्राद्ध सद्भिरुदीरितम् ॥५ कन्यादाने च वृद्धौ च प्रपितामहपूर्वकम् । नाम संकीर्तयेद्विद्वांस्तञ्चावरोहणं(ण)क्रमात् ॥६
इति नान्दीश्राद्ध पितरः [तृप्रकरणम] ।
॥ एकोनविंशोऽध्यायः ॥
अथ विवाहहोमोपरिवयंप्रकरणम् ।
नान्दीश्राद्ध कृते यावदेवकोत्थापनं भवेत् । ब्रह्मयज्ञश्च वै श्राद्धं वेदाध्ययनमेव च ॥१ शवेक्षणं स्वधाकारं श्मश्रुकेशनिकृन्तनम् । सीमातिक्रमणं चैव श्राद्धभोजनमेव च ॥२ न कुर्याच्छुभकर्ता च सपिण्डा अपि चैव हि। यस्तु वै कुरुते मोहादशुभं स च वै लभेत् ॥३ विवाहे चोपनयने कृते चौले सुतस्य च । त्यजेत्पिण्डास्तिलान्छ्राद्ध करकं चाब्दमध्यतः॥४