________________
१७३८ लध्वाश्वलायनस्मृतिः। [अष्टादशो
पिता यस्य मृतश्चेत्स्यादधिकारी पितामहः । तदभावे तु वै भ्राता पितृव्यो गोत्रजो गुरुः ॥२ व्रतबन्धे विवाहे च कन्यायाश्चापि व तथा । सपत्नीको वाऽपत्नीकः सोऽधिकारी भवेदिह ॥३ संस्कार्यस्य च वै यस्य यदि माता विपद्यते । पत्नी विनेति नियमः सद्भिश्चैवात्र नोच्यते ॥४ गृहलो ब्रह्मचारी वा योऽधिकारी स एव हि । संरकुर्यादथ वा (तत्र)ब्राह्मणो ब्रह्मसंभवम् ।।५ इत्याश्वलायनस्मृताधिकारिनियम[प्रकरणम् ।
-
॥ अष्टादशोऽध्यायः ॥ अथ नान्दीश्राद्ध पितृप्रकरणम् ।
अथ नान्दीश्राद्धपूर्वककर्माण्याह। आषाने पुंसि सीमन्ते जातनामनि निष्क्रमे । अन्नप्राशनके चौले तथा चैवोपनायने ॥१ ततश्चैव महानाम्नि तथैव च महाव्रते । अथोपनिषद्गोदाने समावर्तनकेषु च ॥२ विवाहे नियतं नान्दीश्राद्धमेतेषु शस्यते । प्रवेशं च नवोढायाः स्वस्तिवाचनपूर्वकम् ॥३