SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] पत्नीकुमारोपवेशनप्रकरणवर्णनम् । १७३७ ।। षोडशोऽध्यायः ॥ अथ पत्नीकुमारोपवेशनप्रकरणम् । संस्कार्यः पुरुषो वाऽपि स्त्री वा दक्षिणतो भवेत् । संस्कारकस्तु सर्वत्र तिष्ठेदुत्तरतः सदा ॥१ धर्मकार्येषु सर्वेषु व्रतोद्यापनशान्तिषु । वामे स्त्री दक्षिणे कर्ता स्थालीपाके तथैव च ॥२ मार्जने चाभिषेके च कन्यापुत्र विवाहके । आशीर्वचनकाले च पत्नी स्यादुत्तरे सदा ||३ नवसंघाने कन्यादाने वरार्चने । नवोढाप्रवेशे पत्नी दक्षिणे स्वयमुत्तरे ||४ आरभ्याssधानकं कर्म यावन्मौञ्जीनिबन्धनम् । कर्ता स्यादुत्तरे तावत्पत्नी पुत्रस्य दक्षिणे ॥५ पत्नीं विना न तत्कुर्यात्संस्कारं कर्म यच्छिशोः । पन्यां चैव तु जीवन्त्यां विधिरेष उदाहृतः ॥६ इत्याश्वलायनस्मृतौ पत्नी कुमारोपवेशन [ प्रकरण] म् । ॥ सप्तदशोऽध्यायः ॥ अथाधिकारिनियमप्रकरणम् । सुतसंस्कारकर्माणि पिता कुर्यात्सभार्यकः । तदभावेऽधिकारी च कुर्यादेव स चापि हि ॥१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy