SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ १७३५ ऽध्यायः] विवाहविधिवर्णनम् । नित्यहोमे तु कालः स्याद्रात्रौ नाडीनवात्मकः । द्विगुणः स्याद्विवाहे तु प्रवदन्ति महर्षयः॥६२ दंपती नियमेनव ब्रह्मचर्यव्रतेन तु। वैवाहिकगृहे तौ च निवसेतां चतुर्दिनम् ॥६३ चतुर्थी(थ)त्रिदिव(न)स्यान्ते यामे वा चैव दंपती । उमामहेश्वरौ नत्वा वंशदानं प्रदापयेत् ॥६४ भोजनं शयनं स्नानं तथैकत्रोपवेशनम् । गृहप्रवेशपर्यन्तं दंपत्योर्मुनयो विदुः॥६५ वध्वा सह वरो गच्छेत्स्वगृहं पञ्चमे दिने । गृह्योक्तविधिना चैव देशधर्मेण वाऽपि च ॥६६ नान्दीश्राद्धं द्विजः कुर्यात्स्वस्तिवाचनपूर्वकम् । गृहप्रवेशमारभ्य पितर्यपि च जीवति ॥६७ स जीवत्पितृको नान्दीश्राद्धं चेत्कुरुते द्विजः। पितुश्चैव पितॄणां तु प्रवदन्ति महर्षयः ॥६८ प्रथमोद्वाहपर्यन्तं पुत्रस्यैव क्रियासु च । नान्दीश्राद्धं पिता कुर्यादत ऊवं सुतः स्वयम् ॥६६ चत्वारो ब्राह्मणा देवे पित्र्ये चाष्टादश स्मृताः। नान्दीश्राद्धं वदन्त्येके मुनयः पञ्च वाऽपि च ॥७० विवाहे चोपनयने गर्भाधानादिके तथा । अन्वाधाने शतं विप्रान्भोजयेद्दक्षिणान्वितान् ॥७१ विवाहोत्सवयज्ञेषु दैवे पिध्ये च कर्मणि । प्रारब्धे सूतकं नास्ति प्रवदन्ति महर्षयः ॥७२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy