SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ १७३२ — लघ्वाश्वलायनस्मृतिः। [पञ्चदशो कन्यायै वाससी दद्याधुवमित्यनया वरः । तयोरुभे ते बध्नीयान्नीललोहितमित्यूचा ॥३२ बध्नीयात्कन्यकाकण्ठे सूत्रं मणिसमन्वितम् । माङ्गल्यतन्तुनाऽनेन मन्त्रोण स्यात्सदा सती ॥३३ पुण्याहं स्वस्ति वृद्धिं च त्रिस्त्रिब्रूयाद्वरस्य च । अनाधृष्टमुभौ मन्त्रावापो ह्यानः प्रजा तथा ॥३४ नमस्कुर्यात्ततो गौरी सदा मङ्गलदायिनीम् । तेन सा निर्मला लोके भवेत्सौभाग्यदायिनी ॥३५ दंपती तु ब्रजेयातां होमाथं चैव वेदिकाम् । वरस्य दक्षिणे भागे तां वधूमुपवेशयेत् ॥३६ आधारान्तं ततः कुर्यादुपलेपादि पूर्ववत् । सूत्रोक्तविधिना कर्म सर्व कुर्यात्तु चैव हि ॥३७ अग्न आषि तिम्रोऽवत्तमर्यमा प्रजापते । हुत्वा त्वाज्याहुतीरेवं सूत्रोक्तं पाणिपीडनम् ॥३८ वरलिः प्रोक्षयेल्लाजाळूपस्थानमिधारयेत् । अभिधार्याञ्जलिं तस्याः पूरयित्वाऽभिधारयेत् ॥३६ अञ्जलीन्पूरयेद्धृत्वा लाजान्वध्वा विवाहिके। विछिन्नवह्निसंधाने पतिलाजान्द्विरावपेत् ॥४० हुत्वा लाजास्तथा होमं हुत्वा कुर्यात्प्रदक्षिणम् । सोदकुम्भस्य चैवाग्नेरश्मानमवरोहयेत् ॥४१ विधिरेष विवाहस्य प्रत्याहुतिप्रदक्षिणम् । मन्त्रोऽर्यमणं वरुणं पूषणं लाजहोमके ॥४२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy