SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ १७३० लघ्वाश्वलायनस्मृतिः । तदवेक्ष्य करे सव्ये धृत्वा मन्त्रं जपेन्मधु । अनुष्ठानामिकाभ्यां त्रिस्तदेवाऽऽलोडयेद्वरः ॥ १० मधुपर्कं क्षिपेत्किंचिद्वसवस्त्वेति पूर्वतः । भूतेभ्यस्त्वोत्क्षिपेन्त्रिस्तं निदध्याद्भुवि भाजनम् ॥११ कर्ताऽऽदाय सकृद्धस्ते मधुपर्क वरस्य च । जपेदथविराजोऽथ प्राशयेत्पुनराचमेत् ॥१२ पूर्ववच विधानं स्यान्मन्त्रोऽन्यः प्राशने भवेत् । उक्तं सूत्रे विजानीयात्तृतीये प्राशने तथा ॥ १३ उत्तराचमनं पीत्वा सत्यमित्युदकं पिबेत् । द्विराचम्योत्सृजन्माता रुद्राणां मन्त्रतो वरः ॥१४ ततः कर्ताऽर्चयेदेनं गन्धपुष्पाक्षतादिभिः । वराय वाससी दद्यादुपवीतादिकं च हि ॥ १५ वरयेच्चतुरो विप्रान्क्रन्यकावरणाय च । कन्यासमीपमागत्य विप्रगोत्रपुरःसरम् ॥ १६ नाम ब्रूयुर्वरस्याथ प्रपितामहपूर्वकम् । प्रपौत्रपौत्रपुत्रेषु चतुर्थ्यन्तं वराय च ॥१७ गोत्रे चैवाथ संबन्धे षष्ठी स्याद्वरकन्ययोः । वरे चतुर्थी कन्यायां विभक्तिर्द्वितीयैव हि ॥ १८ श्रावयेयुः प्रसुग्मन्तासूक्तं कन्यां कनिक्रदत् । देवीचं पठन्तश्च नयेयुस्ते हि वै वरम् ॥१६ प्राङ्मुखी कन्यका तिष्ठेद्वरः प्रत्यङ्मुखस्तथा । वस्त्रान्तरं तयोः कृत्वा मध्ये तु वरकन्ययोः ॥२० [ पञ्चदशो
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy