SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] उत्सजनप्रकरणवर्णनम् । ॥ त्रयोदशोऽध्यायः ॥ अथोत्सर्जनप्रकरणम् । १७२७ उत्सगं च द्विजः कुर्यात्षण्मास इदमादितः । दार्थ (दीर्घार्थ) च हितं चैतदधीतानां च छन्दसाम् ॥१ पुष्पे चैवोपलेपादि कृत्वा चोत्पवनावधि । संस्कृत्य सक्तुवञ्चान्नं चक्षुष्यन्तं च पूर्ववत् ॥२ सप्त चाऽऽज्याहुतीहु त्वा सक्तस्थाने हुनेच्चरुम् । हुत्वा स्विष्टकृतं चैव अभिघायं यथाविधि ॥३ कर्मोत्सर्गे भवेत्सर्वमुपाकरणवच हि । प्रतिवर्ष द्विजैः कार्य प्राशनं मार्जनं विना ॥४ तपैँयेद्देवताः सर्वाः सावित्र्यादि य (दीर्य) थाक्रमम् । अत्र चैवापि सर्वेऽपि ब्रह्मयज्ञाङ्गदेवताः ॥५ जुहुयाद्रुद्रभागादीन्होमशेषं समापयेत् । विशेषं चाऽऽहुराचार्याः केचिद्यज्ञविदो विदुः ॥६ उपाकर्मणि चोत्सर्गे पुनश्चापि यथाविधि । नैत्यकं तर्पणं कृत्वा ब्रह्मयज्ञपुरःसरम् ॥७ इत्याश्वलायनस्मृतावुत्सर्जन [ प्रकरण ] म् ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy