________________
१७२६
लघ्वाश्वलायनस्मृतिः। [द्वादशोप्राशयेहघिसक्तंश्च गुरुः शिष्यान्समाशयेत् । दानं यज्ञोपवीतस्य धारणं च विधीयते ॥१० ब्रह्मचारी च मौञ्जीवद्धारयेदजिनादिकम् । निषिच्यापः शरावे तु अभिमार्जनमुच्यते ॥११ प्रणवेन च वै सर्वे कुर्युस्ते दर्भपाणयः । विधिनाऽनेन तां ब्रूयादादावों भूर्भुवः स्वरोम् ॥१२ त्रिवारं चैव सावित्री पादमर्धमृचं क्रमात् । अग्निमील इदं सूक्तं वाचयेद्ब्रह्मचारिणम् ॥१३ क्रमेण संहितारण्यं ब्राह्मणं सूत्रमेव च । याजुषं साम चाथर्वमङ्गानि च यथाक्रमम् ॥१४ अध्यापयित्वा रुद्रादिहोमशेष समापयेत् । ततश्चाभ्यासयेद्वेदं स्वाध्याये ब्रह्मचारिणम् ॥१५ तत आरभ्य षण्मासं गुरुसेवान्तरं च हि [१] । उपनीतोऽभ्यसेवेदं यथाश्रुत्युक्तमार्गतः॥१६ नियमेन च षण्मासमृग्वेदादिकमेव हि ॥१७ इत्याश्वलायनस्मृतावुपाकर्मप्रिकरण]म् ।।