________________
१७२५
ऽध्यायः] उपाकर्मप्रकरणवर्णनम् ।
॥ द्वादशोऽध्यायः ॥
अथोपाकर्मप्रकरणम्। श्रवणे स्यादुपाकर्म हस्ते वा श्रावणस्य तु । नो चेद्भाद्रपदे वाऽपि कुर्याच्छिष्यैर्गुरुः सह ॥१ ग्रहदोषादुपाकर्म प्रथमं न भवेद्यदि । उक्तकालेऽथ वाऽषाढे कुर्याच्छरदि वाऽपि वा ॥२ अकाले नैव तत्कुर्यादुपाकर्म कथंचन । अकृत्वा नोद्वहेत्कन्यां मोहाच्चत्पतितो भवेत् ॥३ अनारभ्योक्तकाले च वेदान्कन्यां य उद्वहेत् । नूतनो ब्रह्मचारी स्यात्सर्वकर्मबहिष्कृतः॥४ सात्वा नित्यक्रियां कुर्यादृषींश्चैव समर्चयेत् । 'उपाकर्मणि चोत्सर्गे गौतमादींश्च सप्त वै ॥५ आज्यसंस्कारपर्यन्तमुपलेपादि पूर्ववत् । सक्तूंस्तेनाथ संकुर्यात्स्थालीस्थान्दधिसंयुतान् ॥६ त्रिःप्रोक्ष्य स्थापयेत्स्थाली बहिष्याज्यस्य दक्षिणे । कुर्यादग्निमलंकृत्य चक्षुष्यन्तं च पूर्ववत् ॥७ सावित्र्यादीन्दशाऽऽज्येन जुहुयादाहुतीरथ । केचिद्यज्ञोपवीतस्य होममिच्छन्ति चात्र हि ॥८ उत्सर्गेऽप्येवमेवं स्याद्ववृचानामयं विधिः । ततः स्विष्टकृतं हुत्वा दधिसक्तुभिरेव च ॥