________________
१७२४
।
लघ्वाश्वलायनस्मृतिः।
[एकादशो
॥ एकादशोऽध्यायः ॥ अथ महानाम्न्यादिवतत्रयप्रकरणम् । महानाम्नीव्रतं कुर्यात्पूर्णाब्दे चोत्तरायणे । शुक्लपक्षे शुभेऽह्नि स्यादुपनायनवच्च हि ॥१ महाव्रतं द्वितीये तु भवेत्तत्पूर्ववञ्च हि । संपूर्णे च तृतीयेऽब्दे तथा चोपनिषद्बतम् ॥२ मासे पूर्णे तथा कुर्यात्क्रमाञ्चैतद्वतत्रयम् । कुर्यात्परिददाम्यात(म्यन्त'मुपनायनहोमवत् ॥३ चाहुतित्रयं हुत्वा जुहुयात्तिलमिश्रितम् । अनुप्रवचनीयोक्ता देवताश्च ततः स्मृताः॥४ महानाम्नीभ्यः स्वाहेति सावित्र्या नानमिष्यते । महाव्रताय चाथोपनिषदे तत्र तत्र तु ॥५ वत्रादीनि तथाऽन्यत्र दत्त्वा चाऽऽज्याहुतीरथ । चाहुतित्रयं हुत्वा मौञ्जी दण्डं च धारयेत् ॥६ ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् । विदामघवनाथान्त(?) इत्यारम्भे जपेदथ ॥७ नत्वा गुरुमथाऽऽदित्यमीक्षयेद्ब्रह्मचार्यथ । उत्त्वाऽऽचार्यमधीहीति भोजयेच्छक्तितो द्विजान् ।।८ इत्याश्वलायनस्मृतौ महानाम्न्यादिव्रतत्रय[प्रकरण]म् ।।